संस्कृत-शब्दकोशः

वटु वटुकरणं

वटुक

वाचस्पत्यम्

वटुक ||‍ पु० वट—उक । १ वालके शब्दर० २ भैरवभेदे च तन्त्रम्


शब्दकल्पद्रुमः

वटुकः || पुं, (वटु + स्वार्थे संज्ञायां वा कन् ।)
बालकः । इति शब्दरत्नावली ॥ (यथा, पाद्मे कृष्णचतुर्द्दशीकृत्ये । “कुमारीवटुकान् पूज्य तथा शैवतपोधनान् । राजसूयफलं तेन प्राप्यते नात्र संशयः ॥” ब्रह्मचारी । यथा, भागवते । १० । ८८ । २७ । “तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्द्दनः । दूरात् प्रत्युदियाद् भूत्वा वटुको योग- मायया ॥”)
भैरवविशेषः । (यथा, महानिर्व्वाणतन्त्रे । २ । २४ । “भैरवाश्चैव वेताला वटुका नायिकागणाः । शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः ॥”)
अस्य मन्त्रादिर्यथा, —
“उद्धरेद्बटुकं ङेऽन्तमापदुद्धारणं तथा । कुरुद्बयं पुनर्ङेऽन्तं वटुकञ्च समुद्धरेत् । एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ॥” अस्य पूजा । प्रातःकृत्यादिप्राणायामान्तं विधाय पीठन्यासं कुर्य्यात् । यथा । धर्म्मादि- अनैश्वर्य्यान्तं देहे विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । यथा शिरसि ॐ बृहदारण्यकऋषये नमः । मुखे गायत्त्रीच्छन्दसे नमः । हृदि वटुकभैरवाय देवतायै नमः । ततो मूर्त्ति- न्यासः । ह्रों वों ईशानाय नमोऽङ्गुष्ठयोः । ह्रें वें तत्पुरुषाय नमस्तर्ज्जन्योः । हुं वु अघो- राय नमो मध्यमयोः । ह्रिं विं वामदेवाय नमोऽनामिकयोः । ह्रं वं सद्योजाताय नमः कनिष्ठयोः । पुनस्तत्तदङ्गुलीभिः शिरोवदन- हृद्गुह्यपादेषु तत्तद्बीजादिकास्तत्तन्मूर्त्ती- र्न्यसेत् । तथोर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च तान् न्यसेत् । तथा च निबन्धे । “अङ्गुलीदेहवक्त्रेषु मूर्त्तीर्न्यसेद्यथा पुरा । सत्यादिपञ्चह्रस्वाढ्यशक्तिबीजपुरःसरम् । वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत् ॥” ततः कराङ्गन्यासौ । तद्यथा ॐ ह्रां वां अङ्गु- ष्ठाभ्यां नम इत्यादि । ॐ ह्रां वां हृदयाय नम इत्यादि च । षड्दीर्घबीजद्वयेन कुर्य्यात् । तथा च निबन्धे । “षड्दीर्घयुक्तया शक्त्या वकारेणापि तद्वता । अङ्गानि जातियुक्तानि प्रणवाद्येन कल्पयेत् ॥” ततो ध्यानम् । “तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ॥” सात्त्विकम् । यथा, —
“वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः । दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ दधा- नम् ॥” १ ॥ राजसं यथा, —
“उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः । नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं बन्धूकारुणवाससं भयहरंदेवं सदा भावये ॥” २ ॥ तामसं यथा, —
“ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग- शूलाभयानि । नागं घण्टां कपालं करसरसिरुहैर्व्विभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी- नूपुराढ्यम् ॥” ३ ॥ “सात्त्विकं ध्यानमाख्यातमपमृत्युविनाशनम् । आयुरारोग्यजननमपवर्गफलप्रदम् ॥ १ ॥ राजसं ध्यानमाख्यातं धर्म्मकामार्थसिद्धि- दम् । २ ॥ तामसं शत्रुशमनं कृत्याभूतगदापहम् ॥” ३ ॥ एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ॥ * ॥
अस्य पूजायन्त्रम् । “धर्म्माधर्म्मादिभिः कॢप्तपीठे पङ्कजशोभिते । षट्कोणान्तस्त्रिकोणस्थे व्योमपङ्कजसंयुते ॥” ततो मूलेन मूर्त्तिं सङ्कल्प्य पूर्ब्बवत् ध्यात्वा- वाहनादिकं कुर्य्यात् । तत्र क्रमः । मूलेन सद्यो- जातमन्त्रेणावाहनम् । मूलादिवामदेवेन स्थाप- नम् । मूलेन सान्निध्यम् । अघोरेण सन्निबोध- नम् । तत्पुरुषेण योनिमुद्राप्रदर्शनम् । ईशा- नेन वन्दनमिति विशेषः । ततः कर्णिकायां दिक्षु कोणेषु ईशानादीन् यजेत् । ततो व्योम- पङ्कजदलेषु असिताङ्गादिभैरवान् यजेत् । “असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तौ च मैरवौ । कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः ॥” एतैरष्टभैरवैर्द्वितीयावरणम् । ततः षट्कोणेषु ह्रां वां हृदयाय नम इत्यनेन पूजयेत् । ततः पूर्ब्बादिडाकिनीराकिणीलाकिनीकाकिनी- साकिनीहाकिनीमालिनीपुत्त्रान् देवीपुत्त्रान् उमापुत्त्रान् रुद्रपुत्त्रान् मातृकापुत्त्रान् दक्षिणे यजेत् । ऊर्द्ध्वे ऊर्द्ध्वमुखीपुत्त्रान् अधोऽधोमुखी- पुत्त्रान् । तद्बहिरष्टपत्रेषु लोकेशान् वटुक- रूपान् पूजयेत् । तद्बहिः पूर्ब्बे ॐ ब्रह्माणी- पुत्त्राय नमः । एवमीशाने माहेश्वरीपुत्त्राय । उत्तरे वैष्णवीपुत्त्राय । अनिले कौमारीपुत्त्राय । पश्चिमे इन्द्राणीपुत्त्राय । नैरृते महालक्ष्मी- पुत्त्राय । याम्ये वाराहीपुत्त्राय । अनले चामुण्डापुत्त्राय । तथा च निबन्धे । “ब्रह्माणीपुत्त्रकं पूर्ब्बे माहेशीपुत्त्रमैश्वरे । वैष्णवीपुत्त्रकं सौम्ये कौमारीपुत्त्रमानिले ॥ इन्द्राणीपुत्त्रकं भूयः पश्चिमे पूजयेत्ततः । महालक्ष्मीसुतं पञ्चाद्रक्षोदिशि समर्च्चयेत् । वाराहीपुत्त्रकं याम्ये चामुण्डापुत्त्रमानले ॥” तद्बहिर्द्दशदिक्षु च । हेतुकं त्रिपुरान्तकं वेतालं वह्रिजिह्वं करालं कालान्तकं एकपादं भीम- रूपं अचलं चाटकेश्वरं पूजयेत् । ततो योगिनीसहितदिव्ययोगीशाय नमः । एवं योगिनीसहितान्तरीक्षयोगीशाय नमः । एवं योगिनीसहितभूमिष्ठयोगीशाय नमः । ईशा- नाग्निनिरृतिषु पूजयेत् ॥ * ॥
अस्य पुर- श्चरणमेकविंशतिलक्षजपः । “वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः । तद्दशांशं प्रजुहुयात्तिलैर्मधुरसंयुतैः ॥” * ॥
अथ वलिदानम् । “पूर्ब्बं विघ्नं दुर्गां समाराध्य वलिं दद्यात् । शाल्यन्नं पललं सर्पिर्लाजचूर्णानि शर्कराः ॥ गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः । कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना । रक्तचन्दनपुष्पाद्यैर्निशि तस्मै वलिं हरेत् ॥” यद्वा । “अन्यूनाङ्गमजं हत्वा राजसं प्रागुदीरितम् । वलिप्रदानसमये रिपूणां सर्व्वसैन्यकम् । निवेदयेद्वलित्वेन वटुकाय विशिष्टधीः ॥ विदर्भयेच्छत्रुनाम्ना वलिमन्त्रं तथा सुधीः । शत्रुपक्षस्य रुधिरं पिशितञ्च दिने दिने ॥ भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः । वलिमन्त्रोऽयमाख्यातः सर्व्वेषां विजयप्रदः ॥ अनेन वलिना हृष्टो वटुकः परसैन्यकम् । सर्व्वं गणेभ्यो विभजेच्चामिष क्रुद्धमानसः ॥ एवं कृते परबलं क्षीयते नात्र संशयः ॥” इति तन्त्रसारः ॥ * ॥
अथ वटुकभैरवस्तोत्रम् । “कैलासशिखरासीनं देवदेवं जगद्गुरुम् । शङ्करं परिपप्रच्छ पार्व्वती परमेश्वरम् ॥ श्रीपार्व्वत्युवाच । भगवन् सर्व्वधर्म्मज्ञ सर्व्वशास्त्रागमादिषु । आपदुद्धारणं मन्त्रं सर्व्वसिद्धिप्रदं नृणाम् ॥ सर्व्वेषाञ्चैव भूतानां हितार्थं वाञ्छितं मया । विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ अङ्गन्यासकरन्यासबीजन्याससमन्वितम् । वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ श्रीभगवानुवाच । शृणु देवि महामन्त्रमापदुद्धारहेतुकम् । सर्व्वदुःखप्रशमनं सर्व्वशत्रुनिवर्हणम् ॥ अपस्मारादिरोगाणां ज्वरादीनां विशेषतः । नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ग्रहराजभयानाञ्च नाशनं सुखवर्द्धनम् । स्नेहाद्बक्ष्यामि ते मन्त्रं सर्व्वसारमिमं प्रिये ॥ सर्व्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् । प्रणवं पूर्ब्बमुच्चार्य्य देवी प्रणवमुद्धरेत् ॥ वटुकायेति वै पश्चादापदुद्धारणाय च । कुरुद्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ॥ देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये । मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् । अप्रकाश्यमिमं मन्त्रं सर्व्वशक्तिसमन्वितम् ॥ स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः । विद्रवन्ति भयार्त्ता वै कालरुद्रादिव प्रजाः ॥ पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् । नाग्निचौरभयं वापि ग्रहराजभयन्तथा । न च मारीभयं तस्य सर्व्वत्र सुखवान् भवेत् ॥ आयुरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसम्पदः । भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ श्रीपार्व्वत्युवाच । य एष भैरवो नाम आपदुद्धारको मतः । त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ तस्य नामसहस्राणि अयुतान्यर्व्वुदानि च । सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ * ॥
श्रीभगवानुवाच । यस्तु संकीर्त्तयेदेतत् सर्व्वदुष्टनिवर्हणम् । सर्व्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥ शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः । आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥ सर्व्वपापहरं पुण्यं सर्व्वापद्बिनिवारकम् । सर्व्वकामार्थदं देवि साधकानां सुखावहम् ॥ देहाङ्गन्यसनञ्चैव पूर्ब्बं कुर्य्यात् समाहितः । भैरवं मूर्द्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् । क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ क्षेत्राख्यं नाभिदेशे च कट्यां सर्व्वाघनाशनम् । त्रिनेत्रमूर्व्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥ पादयोर्देवदेवेशं सर्व्वाङ्गे वटुकं न्यसेत् । एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥ नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् । बृहदारण्यको नाम ऋषिश्च परिकीर्त्तितः ॥ देवता कथिता चेह सद्भिर्वटुकभैरवः । धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥ * ॥
ॐभैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्त्रियो विराट् । श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् । रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ करालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥ धनदो धनहारी च धनपः प्रतिभाववान् । नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ कालः कपालमाली च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥ त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः । वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥ भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः । धूर्त्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥ अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः । भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥ कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः । वलिभुक् वलिभूतात्मा कामी कामपराक्रमः ॥ सर्व्वापत्तारको दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिः कान्तः कामिनीवशकृद्वशी । सर्व्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥ अष्टोत्तरशतं नाम भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्व्वकामिकम् ॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा । न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥ पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः । मारीभये राजभये तथा चौराग्निजे भये ॥ औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने । बन्धने च तथा घोरे पठेत् स्तोत्रं समाहितः ॥ सर्व्वे प्रशमनं यान्ति भयाद्भैरवकीर्त्तनात् । एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥ त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानुषः ॥ षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् । राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥ रात्रौ वारत्रयञ्चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥ धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः । पठेद्बारत्रयं यद्बा वारमेकं तथा निशि ॥ धनं पुत्त्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः । रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः । यान् यान् समी हते कामांस्तांस्तानाप्नोति निश्चितम् । अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ सत्कुलीनाय शान्ताय ऋजवे दम्भवर्ज्जिते । दद्यात् स्तोत्रमिदं पुण्यं सर्व्वकामफलप्रदम् । ध्यानं वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ * ॐ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्च्चसम् । अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् । दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥ खट्वाङ्गमसिपाशञ्च शूलञ्चैव तथा पुनः । डमरुञ्च कपालञ्च वरदं भुजगन्तथा ॥ नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् । दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥ आत्मवर्णसमोपेतसारमेयसमन्वितम् । ध्यात्वा जपेत् सुसंहृष्टः सर्व्वान् कामानवाप्नुयात् ॥ एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् । भैरवाय प्रहृष्टाभूत् स्वयञ्चैव महेश्वरी ॥” इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव- स्तवराजः समाप्तः ॥ * ॥
अथ वटुकभैरवकवचम् । श्रीभैरव उवाच । “देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् । म्रियन्ते साधका येन विना श्मशानभूमिषु ॥ रणेषु चातिघोरेषु महावायुजलेषु च । शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥ श्रीदेव्युवाच । कथयामि शृणु प्राज्ञ वटोस्तु कवचं शुभम् । गोपनीयं प्रयन्तेन मातृजारोपमं यथा ॥ तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः । सात्त्विकं राजसञ्चैव तामसं देव तत् शृणु ॥ वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः । दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां वटुकमनिशं शूलखड्गौ दधानम् ॥ १ ॥ उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः । नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं वन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २ ॥ ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग- शूलाभयानि । नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी नूपुराठ्यम् ॥ ३ ॥ * ॥
अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनु- ष्टुप्छन्दः श्रीवटुकभैरवो देवता वं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्व्वाभीष्ट- सिद्ध्यर्थे विनियोगः । “ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा । नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः । नासापुटौ तथोष्ठौ च भस्माङ्गः सर्व्वभूषणः ॥ भीषणास्यो ममास्यञ्च शक्तिहस्तो गलं मम । स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ पाणी कपाली मे पातु मुण्डमालाधरो हृदम् । वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम ॥ उदरञ्च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा । क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ कटीं पापौघनाशश्च वटुको लिङ्गदेशकम् । गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः ॥ गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ आपादमस्तकञ्चैव आपदुद्धारणस्तथा । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ पातु मां वटुको देवो भैरवः सर्व्वकर्म्मसु । पूर्ब्बस्यामसिताङ्गो मे दिशि रक्षतु सर्व्वदा ॥ आग्नेय्याञ्च रुरुः पातु दक्षिणे चण्डभैरवः । नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः । भीषणो भैरवः पातूत्तरस्यां दिशि सर्व्वदा ॥ संहारभैरवः प तु दिश्यैशान्यां महेश्वरः । ऊर्द्धे पातु विधाता वै पाताले नन्दिको विभुः ॥ सद्योजातस्तु मां पायात् सर्व्वतो देवसेवितः । वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ जले तत्पुरुषः पातु स्थले पातु गुरुः सदा । डाकिनीपुत्त्रकः पातु दारांस्तु लाकिनीसुतः ॥ पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः । लाकिनीपुत्त्रकः पातु पशूनश्वानजांस्तथा ॥ महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः । राज्यं राज्यश्रियं पायात् भैरवो भीति- हारकः ॥ रक्षाहीनन्तु यन् स्थानं वर्जितं कवचेन च । तत् सर्व्वं रक्ष मे देव त्वं यतः सर्व्वरक्षकः ॥ एतत् कवचमीशान तव स्नेहात् प्रकाशितम् । नाख्येयं नरलोकेषु सारभूतञ्च सुश्रियम् ॥ यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् । न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥ यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ॥ अनेन कवचेशेन रक्षां कृत्वा द्बिजोत्तमः । विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ॥ मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः । तस्मात् सर्व्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो । धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः । सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ नमो भैरवदेवाय सारभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥” इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव- भैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



Correction: