वाचस्पत्यम्
वडभी is an alternate of वडभि. वडभि(भी) || स्त्री वड्यते कारुह्यतेऽत्र वड—अभि वा ङीप् । १ गृहचूडायाम् (सदुनि) अमरः २ प्रासादामस्यगृहे च (चिलेघर) रत्नमा० ।
शब्दकल्पद्रुमः
वडभी || स्त्री (वड्यते आरुह्यतेऽत्रेति । वड् + बाहु- लकात् अभिच् । कृदिकारादिति ङीष् ।)
गृहचूडा । इत्यमरः ॥ मुदनि । इति भाषा । तत्पर्य्यायः । गोपानसी २ । इति तट्टीकासार- सुन्दरी ॥ चन्द्रशालिका ३ कूटागारम् ४ । इति त्रिकाण्डशेषः ॥ “चन्द्रशाला च वडभी स्यातां प्रासादमूर्द्धनि ॥” इति श्रीधरः ॥ खेलायां वडभौ चूडा । इति रुद्रः ॥ “वडभी चन्द्रशालेति प्रासादादौ च मण्डपे ॥” इति कोषान्तरम् ॥ “शुद्धान्ते वडभी चन्द्रशाले सौधोर्द्ध्ववेश्मनि ॥” इति रभसः ॥ ह्रस्वान्तापि वडभिः । तां कस्याञ्चिद्भवनवडभौ सुप्तपारावतायामिति । मेघदूतम् । ४० ॥ वडभिः वडभी वलभिः वलभी चेति चातूरूप्य- मिति वृद्धाः । इति भरतः ॥ (यथा, हरिवंशे । ८४ । ११ । “सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः । क्रियन्तां मञ्चवाटाश्च वडभ्यो वीथयस्तथा ॥”)