शब्दकल्पद्रुमः
वडवा is an alternate of बडवा. ब(व)डवा || स्त्री (बलं वातीति । बल + वा + कः । टाप् । डलयोरैक्यात् लस्य डत्वम् ।)
घोटकी । इत्यमरः । २ । ८ । ४३ ॥ (यथा, महाभारते । १ । २२२ । ४५ । “वडवानान्तु शुद्धानां चन्द्रांशुसमवर्च्चसाम् । ददौ जनार्द्दनः प्रीत्या सहस्रं हेमभूषितम् ॥” अस्या दुग्धगुणा यथा, —
“रूक्षोष्णं बडवाक्षीरं बल्यं शोषानिलापहम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ बडवारूपधारिणी सूर्य्यपत्नी संज्ञा । यथा, मार्कण्डेयपुराणे । ७७ । २३ । “सूर्य्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती । तपश्चचार तत्रापि बडवारूपधारिणी ॥” अस्या विशेषविवरणन्तु तत्रैव विशेषतो द्रष्टव्यम् ॥ तृतीया सूर्य्यपत्नी । इति केचित् । यथा, भाग- वते । ८ । १३ । ८ — ९ । “विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे । संज्ञा छाया च राजेन्द्र ! ये प्रागभिहिते तव ॥ तृतीयां बडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृणु ॥”)
अश्विनीनक्षत्रम् । इति ज्योतिषम् ॥ (नारी- विशेषः । इति हेमचन्द्रः ॥ दासी । यथाह नारदः । “भक्तदासञ्च विज्ञेयस्तथैव बडवाकृतः ॥” वासुदेवस्य स्वनामख्याता परिचारिका । इति हरिवंशः । ३५ । ३ ॥)
बाडवाग्निः । अस्योत्- पत्तिर्यथा, —
“अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् । प्रसीद जगतां नाथ ! कामे क्रोधं परित्यज ॥ इति स्म वदतां तेषाममराणां तदानलः । ललाटचक्षुःसम्भूतो भस्माकार्षीन्मनोभवम् ॥ ब्रह्मा क्रोधानलं शम्भोर्धक्षन्तं सकलान् जनान् । बडवारूपिणं चक्रे देवानां पुरतस्तदा ॥ बडवां तां तदा देवाः सौम्वां ज्वालामुखीं शुभाम् । दृष्ट्वा निर्विघ्नमनसो बभूवुः पूर्ब्बपीडिताः ॥ बडवां तां समादाय तदा ज्वालामुखीं विधिः । सागरं प्रययौ लोकहिताय जगतां प्रभुः ॥ गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः । यथावत्तेन विप्रेन्द्राः समयञ्च निदेशयन् ॥ अयं क्रोधो महेशस्य बडवारूपधृक् त्वया । ज्वालामुखः सदा धार्य्यो यावन्न विलयाम्यहम् ॥ यदा त्वामहमागम्य वदामि सरितांपते ! । तदा त्वया परित्याज्यः क्रोधोऽयं बडवामुखः ॥ भोजनं भवतस्तोयमेतस्य तु भविष्यति । यत्नादेव विधार्य्योऽयं यथा नो याति चान्तरम् ॥ इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् । ग्रहीतुं बडवावक्त्रं शम्भोश्चाशक्यमप्यरम् ॥ ततः प्रविष्टो जलधौ पावको बडवामुखः । वार्य्योघविद्धहंसस्य ज्वालामालातिदीपितः ॥” इति कालिकापुराणे ४१ अध्यायः ॥ (नदीविशेषः । यथा, महाभारते । ३ । २२१ । २४ । “तमसा नर्म्मदा चैव नदी गोदावरी तथा । वेण्णोपवेण्णा भीमा च बडवा चैव भारत ! ॥” तीर्थभेदः । यथा, महाभारते । ३ । ८२ । ८८ । “ततो गच्छेत बडवां त्रिषु लोकेषु विश्रुताम् । पश्चिमायान्तु सन्ध्यायां उपस्पृश्य यथाविधि ॥”)