वाचस्पत्यम्
वडा || स्त्री वड—अच् । स्वनामख्याते पिष्टकभेदे शब्दच० ।
शब्दकल्पद्रुमः
वडा || स्त्री (वड् + अच् + टाप् ।) वटकः । यथा, — “कदलेनाथवा तालैर्युक्तं यत्ताण्डुलं पिडम् । पिडं चूर्णं वटो वडा । इति शब्दचन्द्रिका ॥