वाचस्पत्यम्
वण्टक || पु० वण्ट—घञ् स्वार्थे क । १ भागे अमरः ण्वुल् । २ विभाजके त्रि० ।
शब्दकल्पद्रुमः
वण्टकः || पुं, (वण्ट एव । स्वार्थे कन् ।) भागः । इत्यमरः । २ । ९ । ८९ ॥ (वण्ट् + ण्वुल् । विभाय- कर्त्तरि, त्रि ॥)