संस्कृत-शब्दकोशः

वण्ठ वण्ठाल

वण्ठर

वाचस्पत्यम्

वण्ठर ||‍ पु० वठि—अरन् । १ स्थगिकारज्जौ २ कुक्कुरलाङ्गूले ३ करीरकोषे ४ तालस्य पल्लवे ५ पयोधरे च मेदि० । अय मौष्ठादिरपि तत्रार्थे ।


शब्दकल्पद्रुमः

वण्ठरः || पुं, स्थगिकारज्जुः । कुक्कुरस्य लाङ्गूलम् । करीरकोषः । तालस्य पल्लवम् । पयोधरः । इति मेदिनी । रे, १८८ ॥ तत्र ओष्ठ्यवकारादौ गणितो- ऽयम् । किन्तु वठि ङ एकचरे इत्यस्मात् अरच्- प्रत्ययेन निष्पन्नत्वात् दन्त्यवकारादौ लिखितः ॥



Correction: