वाचस्पत्यम्
वण्ड || त्रि० वडि—अच् । १ अकृतोद्वाहे २ हस्ताद्यङ्गविकले (वेँडे) ३ अनावृतमेढ्रे हेमच० ४ पांशुलायां स्त्रियां स्त्री मेदि० ।
शब्दकल्पद्रुमः
व(ब)ण्डः || पुं, (वनते इति वनु सम्भक्तौ । वन् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।)
अनावृतमेढ्रः । तत्पर्य्यायः । दुश्चर्म्मा २ द्विनग्नकः ३ शिपिविष्टः ४ । इति हेम- चन्द्रः ॥
शब्दकल्पद्रुमः
वण्डः || त्रि (वनते इति । वन सम्भक्तौ । वन् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।)
हस्तादिवर्ज्जितः । इति मेदिनी । डे, २४ ॥ वेँडे इति भाषा ॥