वाचस्पत्यम्
वतंस || पु० अव + तन्स—घञ् अवाल्लोपः । १ कर्णभूपणभेदे २ शेखरे ३ शिरोभूषणे मेदि० ४ भूषणमात्रे च ।
शब्दकल्पद्रुमः
वतंसः || पुं, (अवतंसयति अवतंस्यतेऽनेन वेति । अव् + तसि + अच् । घञ् वा । अवस्याल्लोपः ।)
कर्णपूरः । कर्णभूषणम् । शेखरः । शिरो- भूषणम् । इति मेदिनी । से, ३७ ॥ (यथा, गीतगोविन्दे । २ । २ । “चलितदृगञ्चलचञ्चलमौलिकपोलविलोल- वतंसम् । रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥”)