वत्सक
वत्सकवीज
वत्सकबीजं
शब्दकल्पद्रुमः
वत्सकबीजं || क्ली (वत्सकस्य बीजम् ।)
इन्द्र- यवः । इति राजनिर्घण्टः ॥ (यथा, —
“व्योषं वत्सकबीजञ्च निम्बभूनिम्बमार्कवम् । चित्रकं रोहिणीं पाठां दार्व्वीमतिविषां समाम् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वरातिसारे व्योषाद्यचूर्णे ॥)