शब्दकल्पद्रुमः
वत्सतरी || स्त्री (वत्सतर + ङीप् ।)
वृषोत्मर्गे वृषपत्नीत्वेन कल्पिता त्रिहायणी गौः । यथा, कात्यायनसूत्रम् । पयस्विन्याः पुत्त्रो यूथे च रूपवान् स्यात् तमलङ्कृत्य यूथमुख्याश्चतस्रो वत्सतर्य्यस्ताश्चालङ्कृत्य एवं युवानं पतिं वो ददानि तेन क्रीडन्तीश्चरथ प्रियेण मनः साप्तजनुषा सुभगा रायस्पोषेण समिषा मदेम इत्येतयैव ऋचोत्सृजेरन्निति । ऋगर्थस्तु हे वत्सतर्य्यो वो युष्माकं एनं युवानं पतिं स्वामिनं ददानीत्युक्तं प्रार्थयामि तेन वृषेण सह क्रीडन्तीः खेलन्त्य- श्चरथ भ्रमथ हे वत्सतर्य्यो यूयमपि मानः नास्मत्स्वत्वविषया भविष्यथ किन्तु मया त्यक्तव्याः । वयं वृषस्य वत्सतरीणाञ्च त्यागेन रायस्पोषेण धनसमृद्ध्या साप्तजनुषा सप्तजन्म- व्यापकेन इषा अन्नेन च सम्मदेम हृष्टा भवामः सुभगा लोकस्य प्रिया इति सम्मदेम इति भविष्यत्सामीप्ये वर्त्तमान इति पाणिनिस्वर- साद्भविष्यदर्थे वर्त्तमानः ॥ * ॥
वत्सतरीर्व्विशे- षयति स्मृतिः । “अग्रतो लोहितापत्नी पार्श्वाभ्यां नीलपाण्डरे । पृष्ठतस्तु भवेत् कृष्णा वृषभस्य तु मोक्षणे ॥” तासां वयःप्रमाणं यथा, —
“त्रिहायणीभिर्धन्याभिः सुरूपाभिः सुशो- भितः । सर्व्वोपकरणोपेतः सर्व्वशस्यचरो महान् । उत्स्रष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् ॥” इति शुद्धितत्त्वे वृषोत्सर्गविचारः ॥