वाचस्पत्यम्
वत्सर || पु० वस—सरन् । द्वादशमासात्मके काले अब्दशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वत्सरः || पुं, (वसन्त्यस्मिन् अयनर्त्तुमासपक्षवारा- दय इति । वस निवासे + “वसेश्च ।” उणा० ३ । ७१ । इति सरन् । “सः स्यार्द्धधातुके ।” ७ । ४ । ४९ । इति सस्य तः ।)
द्वादशमासा- त्मककालः । अयनद्बयात्मकश्च । तत्पर्य्यायः । संवत्सरः २ अब्दः ३ हायनः ४ शरत् ५ समा ६ । इत्यमरः । १ । ४ । २० ॥ शरदा ७ वर्षम् ८ वरिषम् ९ संवत् १० । इति शब्दरत्नावली ॥ * ॥
“व्रतबन्धविवाहे च वत्सरपरिकल्पनमाहुरा- चार्य्याः । आधानपूर्ब्बमेके प्रसूतिपूर्ब्बं सदान्ये तु ॥” सौरसावननाक्षत्रचान्द्रभेदेन चतुर्व्विधो वत्सरः । यथा चूडोपनयनादिषु वर्षगणना सावनेन शुभाशुभगणनन्तु सौरेणेति सिद्धम् । सावनसंवत्- सरेण एकदिनाधिकवत्सरो नाक्षत्रो भवती- त्यनयोर्भेदः । सौरस्तु पञ्चषष्ट्यधिकत्रिशत- दिनैर्भवति । यथा, —
“मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् । १८७ । तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत्ततः ॥” १७८ ॥ चान्द्रवत्सरोऽपि द्बादशमासैर्भवति । मलमास- पाते तु त्रयोदशमासैर्भवति । तथा च श्रुतिः । द्वादशमासाः संवत्सरः क्वचित्त्रयोदशमासाः मंवत्सर इति । त्रयोदशेत्यधिमासे । स्मृतिः । यस्मिन्नब्दे द्बादशैकश्च यव्य इति । यव्यो मास इति । यव्या मासाः स्वमेकः संवत्सर इति शतपथश्रुत्या यव्य-स्वमेक-शब्दयोर्मासवर्षपर्य्याय- तोक्ता । इति मलमासतत्त्वम् ॥ * ॥
अथ षष्टिसंव- त्सरगणना । “शकेन्द्रकालः पृथगाकृति-२२ घ्नः शशाङ्कनन्दाश्वियुगैः ४०९१ समेतः । शराद्रिवस्विन्दु-१८७५ हृतः सलब्घः षष्ट्यावशिष्टाः प्रभवादयोऽब्दाः ॥ वर्षवर्जन्तु यच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः । ६० । हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः ॥” अस्यार्थः शकेन्द्रकालः शकराजाब्दकालः । पृथक् आकृतिघ्नः २२ द्बाविंशत्या पूरितः । शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्बयाधिक- चतुःसहस्रैः समेतोऽङ्कः । शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्संख्यं हर्त्तुं शक्रोति तावता हृतः कर्त्तव्यः । सलब्धः पूर्ब्ब- शकाब्दः शरेत्यादिना लब्धसंख्यया युतः कार्य्यः । षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ब्बवत् षष्ट्याहृतलब्धस्यावशिष्टे प्रभवादयः । एकाव- शेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः । वर्ष- वर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता- वशिष्टं तत् सूर्य्यैर्द्बादशभिः संपूर्य्य खोर्म्मिभिः षष्ट्या हृते व्युत्क्रमत इत्यनेन षष्टिहृताव- शिष्टा अङ्का दण्डाः षष्टिहृतलब्धांशके खाग्नि- हृते त्रिशता हृतेऽवशिष्टा अंशका लब्धा मासाः स्युरिति । प्रभवादिवर्षाण्युपक्रम्य । “आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवी स्मृता । तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥” भविष्यपुराणे । भैरव उवाच । “षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये ! । संवत्सरफलं मुख्यं प्रभवादौ वरानने ! ॥ बहुतोयास्तथा मेघा बहुशस्या च मेदिनी । बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः ॥ प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः । १ । सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः ॥ प्रशान्ता मानवास्तत्र बहुशस्या बसुन्धरा । हृष्टास्तुष्टा जनाः सर्व्वे विभवे च वरानने ! ॥ २ ॥ रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः । सर्व्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने ! ॥ ३ ॥ उन्मत्तञ्च जगत् सर्व्वं धनधान्यसमाकुलम् । नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये ॥ ४ ॥ नीरोगाश्च निरावाधा मानवा विगतद्बिषः । बहुक्षीरास्तथा गावः प्राजापत्ये वरानने ॥ ५ ॥ निरातङ्कं जगत् सर्व्वं धनयौवनगर्वितम् । अङ्गिरसि प्रजाः सर्व्वा नित्योत्साहा वरानने ॥ ६ ॥ सुभिक्षं क्षेममारोग्यं वर्षाकालं सुशोभनम् । शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते ॥ ७ ॥ बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् । जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने ॥ ८ ॥ महार्घं जायते सर्व्वं घृततैलरसादिकम् । प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे ॥ ९ ॥ निष्पत्तिः सर्व्वशस्यानां मध्या धातरि कीर्त्तिता । इक्षुक्षीरगुडादीनां प्रवलत्वं वरानने ॥ १० ॥ सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता । लवणं मधु गव्यञ्च ईश्वरे दुर्लभं प्रिये ॥ ११ ॥ सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाः प्रिये । तस्करोपहतं वित्तं बहुधान्ये वरानने ॥ १२ ॥ राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् । जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने ॥ १३ ॥ जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा । लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये ॥ १४ ॥ कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव च । महार्घं जायते सर्व्वं वृषे च सुरवन्दिते ॥ १५ ॥ चणका मुद्गमाषाश्च अन्यच्च विदलं प्रिये । महार्घं जायते सर्व्वं चित्रभानौ वरानमे ॥ १६ ॥ सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् । व्यवहारो भवेत् हृष्टः स्वर्भानौ देवपूजिते ॥ १७ ॥ अतिवृष्टिश्च जायेत ध्यान्यस्याथ प्रपीडनम् । शस्यं भवति मामान्यं दारुणे सुरवन्दिते ॥ १८ ॥ बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने । सौराष्ट्रे नाटदेशे च पार्थिवे नात्र संशयः ॥ १९ ॥ दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ॥ २० ॥ उद्यतो वर्षणे मेघो जलं नैवोपजायते । महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने ॥ २१ ॥ कोद्रवाः शालिमुद्गाश्च कङ्गुमाषास्तथैव च । सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि ॥ २२ ॥ अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् । जायते मानुषे कष्टं विरोधिनि न संशयः ॥ २३ ॥ सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥ २४ ॥ उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः । पीडिताश्च प्रजाः सर्व्वा देशभङ्गाः खरे । प्रिये ॥ २५ ॥ सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् । बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये ॥ २६ ॥ अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले । नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः ॥ २७ ॥ क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः । पीडितास्ते वरारोहे जये सर्व्वे न संशयः ॥ २८ ॥ सरोगञ्च तथा देवि दाहज्वरसमन्वितम् । अभिभूतं जगत् सर्व्वं मन्मथे सुरवन्दिते ॥ २९ ॥ तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता । व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः ॥ ३० ॥ पीड्यभ्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते । हेमलखे प्रजाः सर्व्वाः क्षीयन्ते नात्र संशयः ॥ ३१ ॥ तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् । अर्घो भवति सामान्यो विलम्बे तु भयं महत् ॥ ३२ ॥ विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् । विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ॥ ३३ ॥ क्वचिद्वर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः । दुर्भिक्षं शर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ ॥ दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये । प्लवे प्लवन्ति तोयानि पीडिता मानवाभुवि ॥ ३५ ॥ सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् । ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत् प्रिये ॥ ३६ ॥ सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये । सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलो- चने ॥ ३७ ॥ विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् । जनानां जायते भद्रे क्रोधे क्रोधः परस्परम् ॥ ३८ ॥ सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता । विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥ ३९ ॥ पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले । प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे ॥ ४० ॥ तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः । प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ ४१ ॥ जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ ४२ ॥ सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकी- र्त्तितम् ॥ ४३ ॥ तोयपूर्णो भवेन्मेघो वर्षते च दिने दिने । निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४४ ॥ वासवो वर्षते देवि देशे चाखण्डमण्डले । अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाश- कृत् ॥ ४५ ॥ अभिभूतं जगत् सर्व्वं क्लेशैर्व्वहुविधैः प्रिये । मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ४६ ॥ निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये । प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ४७ ॥ निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता । घृतं तैलसमं याति आनन्दे नन्दति प्रजा ॥ ४८ ॥ कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि । सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराः प्रजाः ॥ ४९ ॥ दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्यातं नात्र कार्य्या विचा- रणा ॥ ५० ॥ देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्मदातटे ॥ ५१ ॥ गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः । वासवो वर्षते देवि शस्यञ्च नहि जायते ॥ तिलसर्षपमाषादिकार्पासानां महार्घता । गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥ तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः । तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् । पार्थिवा मोषका दीनाः कालयुक्ते प्रपी- डिताः ॥ ५२ ॥ तोयपूर्णाः स्मृता मेधा बहुशस्या च मेदिनी । निष्ठुराः पार्थिवा देवि ! सिद्धार्थे च वरा- नने ! ॥ ५३ ॥ अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः । विरुद्धाः पार्थिवा देवि रौद्रे संवत्सरे प्रिये ! ॥ ५४ ॥ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते । भवेद्बै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥ सुभिक्षं जायते लोकः सर्व्वोपद्रववर्ज्जितः । प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि ॥ ५६ ॥ महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः । तत् सर्व्वं देवि ! विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥ रक्ते संवत्सरे देवि ! क्रूरबुद्धिर्नराधिपः । मानवाः क्रूरचेष्टाश्च संग्रामे न जयो भवेत् ॥ ५७ दुर्भिक्षं मरणं रोगो धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि ! रक्ताक्षेऽमरवन्दिते ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधो बहुसंकुलः । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९ मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥ कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे । विन्ध्यायां सैन्धवे चापि विनश्यति न संशयः ॥ सिंहलं मध्यदेशश्च कालञ्जरं तथैव च । क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” ६० ॥ * ॥
कार्त्तिकादिद्बादशवर्षाणि यथा । वराहसंहि- तायाम् । “नक्षत्रेण सहोदयमस्तं वा येन याति सुर- राजमन्त्री ॥” तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥ वर्षाणि कार्त्तिकादीनि आग्नेयाद्भद्वयानु- योगीनि । क्रमशस्त्रिभञ्च पञ्चममन्त्यमुपान्त्यञ्च विज्ञेयम् ॥” नक्षत्रेण गुरुभुज्यमाननक्षत्रेण । आग्नेयं कृत्तिका । पञ्चमं फाल्गुनं वर्षम् । अन्त्य- माश्विनम् । उपान्त्यं भाद्रम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ॥ द्वे द्वे चित्रादिताराणां पूर्णपर्व्वेन्दुसङ्गते । मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः ॥” इति सङ्कर्षणकाण्डाच्च ॥ पूर्णपर्व्वेन्दुसङ्गते पौर्णमासीयुते द्वे द्बे तारे तदेकवाक्यतया पूर्व्ववचने पौर्णमासीलाभः । यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्वं तथा वर्षाणामपि गुरोः कृत्ति- कादावस्तोदयसम्बन्धात् कार्त्तिकादित्वं तेन कृत्तिकारोहिण्योरेकतरस्मिन् गुरोरस्तोदये- ऽन्यतरलाभे कार्त्तिकं वर्षम् । एवं मार्ग- शीर्षादि । अत्र वर्षद्वयघटकयोर्नक्षत्रयोरेक- तरस्मिन् अस्तं गतो गुरुरन्यतरस्मिन्नुदेति तत्र का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं ततः पौषमित्यादिक्रमाद्गतिरिति । फलानि च । “शकटानलोपजीविकगोपीडाव्याधिशोकश्च । वृद्धिस्तु रक्तपीतकुसुमानां कार्त्तिके वर्षे ॥ १ ॥ सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्य- नाशः । व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥ २ ॥ शुभकृज्जातः पौषो निवृत्तवैराः परस्परं भूपाः । द्वित्रिगुणो धान्यार्घः पौष्टिककर्म्मप्रसिद्धिश्च ॥ ३ ॥ पितृपूजा परिवृद्धिर्म्माघे हार्द्दञ्च सर्व्वभूता- नाम् । आरोग्यवृष्टिधान्यार्घसम्पदो वित्तलाभश्च ॥ ४ ॥ फाल्गुने वर्षे विद्यात् क्वचित् क्वचित् क्षेम- वृष्ट्यादिशस्यानि । दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥ ५ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः । वृद्धिश्च कोषधान्यस्य भवति पीडा च रूप- वताम् ॥ ६ ॥ वैशाखे धर्म्मपरा विगतभयाः प्रमुदिताः प्रजाः सनृपाः । यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्व्वशस्यानाम् ॥ ७ ॥ ज्यैष्ठे ज्ञातिकुलधर्म्मश्रेणीश्रेष्ठा नृपाः सर्व्व- धर्म्मज्ञाः । पीड्यन्ते धान्यानि च हित्वा कङ्गुशमीजानि ॥ ८ आषाढे जायन्ते शस्यानि क्वचिद्वृष्टिरन्यत्र । योगक्षेमं मध्यं शस्यव्यग्रा भवन्ति भूपाः ॥ ९ ॥ श्रावणे वर्षे क्षेमं कामं शस्यानि पाकमुप- यान्ति । क्षुद्रा ये पार्थिवास्ते पीड्यन्ते ये च तद्भक्ताः ॥ १० ॥ भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्ब्बशस्यञ्च । न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्च दुर्भिक्षम् ॥ ११ ॥ आश्वयुजेऽप्यजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणचयः प्राणभृतां सर्व्वेषामर्थवाहुल्यम् ॥” १२ ॥ इति ज्योतिस्तत्त्वम् ॥ * ॥
समाद्यादिपञ्चवत्सरा यथा, —
“शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्- सराः । सम्परीदानुपूर्ब्बाश्च तथोदापूर्व्वका मताः ॥” संवत्सरादिफलमुक्तं विष्णुधर्म्मोत्तरे ॥ “संवत्सरे तथा दानं तिलस्य तु महाफलम् । परिपूर्व्वे तथा दानं यवानाञ्च द्बिजोत्तमाः ॥ इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्व्वके । उदासंवत्सरे दानं रजतस्य महाफलम् ॥ ज्जोतिर्व्विदस्त्विज्यमध्यात् प्रभवादेश्च सम्भवम् । ऊचुस्तद्बत् समाद्यादिवर्षाणामपि सम्भवम् ॥” इज्यमध्यात् । गुरुमध्यभोगगणनात् । प्रभवादेः । प्रभवादिवर्षषष्टेः । इति मलमासतत्त्वम् ॥ * ॥
(ध्रुवपुत्त्रः । यथा, भागवते । ४ । १० । १ । “प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥”)