वाचस्पत्यम्
वत्सरान्तक || पु० वत्सरस्यान्तं करोति अन्त + णिच्—ण्वुल् । फाल्गुनमासे राजनि० वत्सरस्य चैत्रादिकत्वात् फालगु- नस्य तदन्तकालत्वात्तथात्वम् ।
शब्दकल्पद्रुमः
वत्सरान्तकः || पुं, (वत्सरस्यान्ते कायति शोभते इति । कै + कः । यद्वा, वत्सरस्यान्तो नाशो यस्मात् ।)
फाल्गुनमासः । इति राजनिर्घण्टः ॥