वाचस्पत्यम्
वत्सल || त्रि० वत्सं लाति ला—क । १ स्नेहयुक्ते २ वात्सल्ये रसे पु० ३ तद्वति त्रि० ४ विष्णौ पु० विष्णुस० ।
शब्दकल्पद्रुमः
वत्सलः || त्रि (वत्से पुत्त्रादिस्नेहपात्रे कामो- ऽस्यास्तीति । वत्स + “वत्सांसाभ्यां काम- बले ।” ५ । २ । ९८ । इति लच् ।)
स्नेह- युक्तः । तत्पर्य्यायः । स्निग्धः २ । इत्यमरः । ३ । १ । १४ ॥ (यथा, भागवते । १ । ५ । ३० । “ज्ञानं गुह्यतमं यत्तत् साक्षात् भागवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥” वत्सं लाति गृह्णातीति । ला + कः । वत्स- कामुके च ॥)
शब्दकल्पद्रुमः
वत्सलः || पुं, (वत्स + लच् ।)
शृङ्गारादिदश- रसान्तर्गतरसविशेषः । तत्पर्य्यायः । वात्सल्यम् २ । इति जटाधरः ॥ (अस्य लक्षणोदाहरणे तु रसशब्दे ज्ञातव्ये ॥ * ॥
स्कन्दानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ६९ । “वत्सलो मधुवर्णश्च कलसोदर एव च ॥”)