वत्सल
वत्साक्षी
वत्सला
शब्दकल्पद्रुमः
वत्सला || स्त्री (वत्से कामोऽस्त्यस्या इति । लच् । यद्वा, वत्सं लातीति । ला + कः ।)
वत्सकामा गौः । इति हेमचन्द्रः । ४ । ३२७ ॥ (यथा, रामायणे । २ । ४३ । १८ । “साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥”)