संस्कृत-शब्दकोशः

वत्सादन वद

वत्सादनी

वाचस्पत्यम्

वत्सादनी ||‍ स्त्री वत्सैरद्यते प्रियत्वेन अद—ल्युट् ङीप् । १ गुडूच्याम् अमरः । वत्सः अदनमस्य । २ वृके पुंस्त्री० राजनि० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

वत्सादनी || स्त्री (वत्सैरद्यते प्रियत्वादिति । अद् ल्युट् । ङीप् ।)
गुडूची । इत्यमरः । २ । ४ । ८९ ॥



Correction: