वाचस्पत्यम्
वदन || न० उद्यतेऽनेन वद—करणे ल्युट् । १ मुखे अमरः । २ वचनेन्द्रिये भावे ल्युट् । २ कथने न० ।
शब्दकल्पद्रुमः
वदनं || क्ली (वदन्त्यनेनेति । वद् + करणे ल्युट् ।)
मुखम् । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । २७६ । “दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोल- तलम् । चुम्बननिषेधमिषतो वदनं पिदधाति पाणि- भ्याम् ॥” लक्षणया अग्रभागः । यथा, सुश्रुते । १ । ७ । “त्रीण्यन्यानि (यन्त्राणि)
जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्वभिप्रेतानि ॥” वद + भावे ल्युट् । कथनम् ॥)