वाचस्पत्यम्
वदाम || न० वद—आमन् । (वादाम) वातादे फलभेदे भावप्र० । “वातादो वातवैरो स्यान्नेत्रोपमफलस्तथा । वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद्गुरुः । वातादमज्जा मधुरो वृष्यः पित्तानिलापहः । स्निग्धोष्णः कफहृत् श्रेष्ठो रक्तपित्तविकारिणाम्” भावप्र० ।
शब्दकल्पद्रुमः
वदामं || क्ली फलविशेषः । वादाम इति भाषा ॥ तत्पर्य्यायः । सुफलम् २ वातवैरिः ३ नेत्रो- पमम् ४ । अस्य गुणाः । उष्णत्वम् । सुस्निग्ध- त्वम् । वातघ्नत्वम् । गुरुत्वम् । शुक्रकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वातादो वातवैरी स्यान्नेत्रोपमफलस्तथा । वाताद उष्णः सुस्निग्धो वातघ्नः शुक्रकृत् गुरुः ॥ वातादमज्जा मधुरो वृष्यः षित्तानिलापहः । स्निग्धोष्णकफहृत् श्रेष्ठो रक्तपित्तविकारिणाम् ॥” इति भावप्रकाशः ॥