संस्कृत-शब्दकोशः

वदावद वधक

वध

शब्दकल्पद्रुमः

वधः || पुं, (हननमिति । हन् + अप् । वधादेशः ।)
प्राणवियोगफलकव्यापारः । तत्पर्य्यायः । प्रमा- पणम् २ निवर्हणम् ३ निकारणम् ४ निशा- रणम् ५ प्रवासनम् ६ परासनम् ७ निसू- दनम् ८ निहिंसनम् ९ निर्व्वासनम् १० संज्ञ- पनम् ११ निर्ग्रन्थनम् १२ अपासनम् १३ निस्तर्हणम् १४ निहननम् १५ क्षणनम् १६ परिवर्ज्जनम् १७ निर्व्वापणम् १८ विशसनम् १९ मारणम् २० प्रतिघातनम् २१ उद्वासनम् २२ प्रमथनम् २३ क्रथनम् २४ उज्जासनम् २५ आलम्भः २६ पिञ्जः २७ विशरः २८ घातः २९ उन्मन्थः ३० । इत्यमरः ॥ हिंसा ३१ वातनम् ३२ विदारणम् ३३ पिञ्जकम् ३४ पातः ३५ परिघः ३६ परिघातनम् ३७ कद- नम् ३८ निवारणम् ३९ समाघातः ४० निर्ग- न्धनम् ४१ मारिः ४२ मारी ४३ उत्पातः ४४ मारकः ४५ मरकः ४६ मारः ४७ संघातः ४८ । इति शब्दरत्नावली ॥ * ॥
पुण्यप्रदवधो यथा, —
“एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ॥” इति कालिकापुराणे २० अध्यायः ॥ अपि च । “कथं नु स्त्रीवधं कुर्य्यां महापातकिनामपि । स्त्रीवधे तु महापापं यथा ब्रह्मवधे मुने ॥ इति रामवचः श्रुत्वा विश्वामित्रस्तमाह वै ॥ यस्यास्तु बहवो मासान् म्रियन्तेऽपि द्विजन्मनः । न पापं विद्यते तेन न दोषा नृपनन्दन ॥ यस्यास्तु निधनाद्राम जनाः स्युः सुखिनो भृशम् । भवन्ति सततं तस्मात्तस्याः पुण्यप्रदो वधः ॥” इत्यग्निपुराणम् ॥ * ॥
अपि च । “नैकस्यार्थे बहून् हन्यादिति शास्त्रेषु निश्चयः । एकं हन्याद्बहूनां हि न पापी तेन जायते ॥” इति वामनपुराणे ५५ अध्यायः ॥ * ॥
“नाततायिवधे दोषो हन्तुर्भवति कश्चन ।” इति गीतायाः १ । २६ श्लोकटीकायां स्वामी ॥ पापजनकवधः प्रायश्चित्तशब्दे द्रष्टव्यः ॥ * ॥
वधबन्धौ पूर्ब्बकर्म्मवश्यौ यथा, —
“न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा । वधबन्धौ पूर्व्वकर्म्मवश्यौ नृपतिनन्दन ॥” इति वामनपुराणे ६२ अध्यायः ॥ * ॥
पारिभाषिकवधो यथा, —
“वपनं द्रविणादानं देशान्निर्यापनन्तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥” इति महाभारते सौप्तिकपर्व्व ॥ (वधप्रकारो वधित्वभेदादिकञ्च वधिन्नितिशब्दे द्रष्टव्यम् ॥)



Correction: