शब्दकल्पद्रुमः
वधस्थली || स्त्री (वधाय वधस्य वा स्थली स्थानम् ।) प्राणिवधस्थलम् । मशान इति भाषा । तत्- पर्य्यायः । आघातः २ । इति त्रिकाण्डशेषः ॥ प्रघातः ३ वधस्थानम् ४ । इति शब्दरत्नावली ॥ आघातनम् ५ । इति हारावली ॥