शब्दकल्पद्रुमः
वध्यः || त्रि (वधमर्हतीति । वध + यत् ।)
वधार्हः । तत्पर्य्यायः । शीर्षच्छेद्यः २ । इत्यमरः । ३ । १ । ४५ ॥ “किन्त्वया न श्रुतं लोके अवध्याः शत्रुयोषितः । हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा भवेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ अवध्या यथा, —
“गोब्राह्मणं वृद्धमथापि सुप्तं बालं स्वबन्धुं ललनां सुदुष्टाम् । कृतापराधानपि नैव वध्या- दाचार्य्यमुख्या गुरवस्तथैव ॥” इति वामनपुराणे ५५ अध्यायः ॥