वाचस्पत्यम्
वन || उपकारे उपतापे च सक० शब्दे अक० वा चु० उभ० पक्षे भ्वा० पर० सेट् । वानयति ते वनति । अवीवनत् त । अवनीत् अवानीत् ।
वाचस्पत्यम्
वन || न० स्त्री वन—अच् । १ वृक्षसमुदायात्मके अरण्ये अमरः स्त्रोत्वे ङीष् । “सुवनी सम्प्रषदत्पिकापि का” नैष० । २ जले ३ निवासे ४ आलये च मेदि० । ५ प्रस्तरणे हेमच० ।
वाचस्पत्यम्
वन || याचने द्विक० तना० आ० सेट् क्त्वा वेट् । वनुते अवनिष्ट ।
वाचस्पत्यम्
वन || व्यापारे भ्वा० पर० सक० सेट् । वनति अवानीत् अव- नीत् । ज्वला० वनः वानः । घटा० वनयति ।
वाचस्पत्यम्
वन || सेवने सक० शब्दे अक० भ्वा० पर० सेट् । वनति अवानीत् अवनीत् ववनतुः ।
शब्दकल्पद्रुमः
वन || उ म व्यापृतौ । इति कविकल्पद्रुमः । (भ्वा०- पर०-अक०-सेट् । उदित्त्वात् क्त्वावेट् ।)
उ, वनित्वा वत्वा । म, प्रवनयति । मित्त्वेऽपि अस्य ञौ ज्वलह्वलेत्यादिना केवलस्य ह्रस्ववि- कल्पनात् सोपसर्गस्यैव नित्यं ह्रस्वः । वनयति वानयति । व्यापृतिर्व्यापारः । अयन्तु कगेवत् क्रियामात्र इत्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वन || कि उपकृतिश्रद्धाघातशब्दोपतापेषु । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०- अक० च-सेट् ।)
कि, वानयति वनति । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वनं || क्ली (वन्यते सेव्यते इति । वन् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । घः । इति निघण्टौ देवराजयज्वा । १ । १२ । ९ ।)
जलम् । (यथा, रघुः । ९ । २२ । “नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥”)
निवासः । आलयः । इति मेदिनी । ने, १९ ॥ (चमसः । यथा, ऋखेदे । २ । १४ । ९ । “अध्वर्यवः कर्त्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ॥” “वने संभजनीये वने उदके निपूतमाप्यायनेन शोधितं सोममुन्नयध्वमूर्द्ध्वं नयत । यद्बा वने तद्विकारे चमसे निपूतं दशापवित्रेण शोधितं सोमं वने चमसे उन्नयध्वम् ।” इति तद्भाष्ये सायणः ॥)
प्रस्रवणम् । इति हेमचन्द्रः ॥ (रश्मिः । इति निघण्टुः । १ । ५ । ८ ॥ “वन षण सम्भक्तौ भूवादिः परस्मै पदी । पुंसि संज्ञायां घः । वन्यते सेव्यते शीतादिनिवारणाय । अथवा वनतिर्हिंसार्थः । वन्यते हिंस्यतेऽनेन तमः । यद्बा, वनु याचने तनादि आत्मने भाषा । वन्यते याच्यते ष्टष्टिप्रदानाय । यद्वा, वनशब्दे भूवादिः परस्मैपदी वन्यते शब्दते स्तूयते स्तोतृभिः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । २४ । ७ । “अबुध्ने राजा वरुणो वनस्य ॥”)
शब्दकल्पद्रुमः
वनं || क्ली स्त्री, (वनतीति । वन् + पचाद्यच् । यद्वा, वन्यते सेव्यते इति । “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।)
बहुवृक्ष- युक्तस्थानम् । (यथा, मनुः । ८ । ३५६ । “परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । बदीनां वापि सम्भेदे ससंग्रहणमाप्नुयात् ॥” स्त्रियान्तु यथा, साहित्यदर्पणे आर्थिव्यञ्जना- याम् । “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जु द्दूरेपतिः कथय किं करणीयमद्य ॥”)
तत्पर्य्यायः । अटवी २ अरण्यम् ३ विपिनम् ४ गहनम् ५ काननम् ६ । इत्यमरभरतौ ॥ दावः ७ दवः ४ अटविः ९ भीरुकम् १० झाटम् ११ गुहिनम् १२ । इति शब्दरत्ना- वली ॥ शत्रम् १३ समजम् १४ प्रान्तरम् १५ विक्तम् १६ ॥ इति जटाधरः ॥ कान्तारम् १७ । इति राजनिर्घण्टः ॥ * ॥
गृहसमीपकर्त्तव्यवनं यथा, —
“शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्त्रप्रदात्री च पुण्यदा हरिभाक्तिदा । प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥ मालती यूथिका कुन्दं माधवी केतकी तथा । नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥ अपराजिता च शुभदा तेषामुद्यानमीप्सितम् । पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥ मथुरायां द्बादश वनानि यथा, —
“रम्यं मधुवनं नाम विष्णुस्थानमनुत्तमम् । तद्दष्ट्वा मनुजो देवि सर्व्वान् कामानवाप्नुयात् ॥ वनं तालवनञ्चैव द्वितीयं वनमुत्तमम् । तत्र स्नात्वा नरो देवि कृतकृत्यो हि जायते ॥ तृतीयं कुमुदं नाम वनं चैवोत्तमं तथा । तत्र गत्वा नरो देव्रि कृतकृत्यो हि जायते ॥ एकादशी कृष्णपक्षे मासि भाद्रपदे हि या । तत्र स्नातो नरो देवि रुद्रलोके महीयते ॥ चतुर्थं काभ्यकवनं वनानां वनमुत्तमम् । तत्र गत्वा नरो देवि मम लोके महीयते ॥ विमलस्य च कुण्डे तु सर्व्वैः पापैः प्रमुच्यते । यस्तु प्रमुञ्चते प्राणान् मम लोकं स गच्छति ॥ पञ्चमं बहुलवनं वनस्थानमनुत्तमम् । तत्र गत्वा नरो देवि अग्निस्थानं स गच्छति ॥ यमुनायाः परे पारे देवानामपि दुर्लभम् । अस्ति भद्रवनं नाम षष्ठं वनमनुत्तमम् ॥ तत्र गत्वा तु वसुधे मद्भक्तो मत्परायणः । तद्वनस्य प्रभावेण नागलोकं स गच्छति ॥ सप्तमन्तु वनं भूमे खादिरं लोकविश्रुतम् । तत्र गत्वा नरो भद्रे मम लोकं स गच्छति ॥ महावनं चाष्टमन्तु सदैव तु मम प्रियम् । तस्मिन् स्नात्वा तु मनुजो इन्द्रलोके मही- यते ॥ लोहजं धवलं नाम लोहजङ्घेन रक्षितम् । नवमन्तु वनं देवि महापातकनाशनम् ॥ वनं विल्ववनं नाम दशमं देवपूजितम् । तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ॥ एकादशन्तु भाण्डीरं योगिनां प्रियमुत्तमम् । तस्य दर्शनमात्रेण नरो गर्भं न गच्छति । भाण्डीरं समनुप्राप्य वनानां वनमुत्तमम् ॥ वासुदेवं ततो दृष्ट्वा पुनर्जन्म न विद्यते ॥ वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् । मम चैव प्रियं भूमे महापातकनाशनम् ॥ वृन्दावनन्तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यमपुरं यान्ति वैकुण्ठं प्राप्नुयुर्नराः ॥” इति वाराहे मथुरातीर्थवनद्वादशकवर्णनं नामाध्यायः ॥ * ॥
वनविशेषे मरणफलं यथा, —
“यदेवं कथितं पुण्यं मया ब्रह्ममुखाच्च्युतम् । तत् समग्रं भवेत्तस्य अरण्येषूषरेषु च ॥ अरण्यानि प्रवक्ष्यामि तथा चैवोषराणि च । सैन्धवं दण्डकारण्यं नैमिषं कुरुजाङ्गलम् ॥ उपलावृतमारण्यं जम्बूमार्गोऽथ पुष्करम् । हिमवासस्ततोऽरण्य उत्तमः परिकीर्त्तितः ॥ नवष्वेतेष्वरण्येषु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकातिथिर्भूत्वा स याति परमं पदम् ॥” इति देवीपुराणे अरण्योषरप्रशंसा ॥ * ॥
अरण्ये वर्णनीयानि यथा, —
“अरण्येऽहिवराहेभयूथसिंहादयो द्रुमाः । शुककाककपोताद्या भिल्लभल्लदवादयः ॥” उद्याने वर्णनीयानि यथा, —
“उद्याने सरणिः सर्व्वफलपुष्पलताद्रुमाः । प्रिकालिकेकिहंसाद्याः क्रीडावाप्यध्वग- स्थितिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ (शङ्कराचार्य्यशिष्यस्य हस्तामलकस्य शिष्या- णामुपाधिविशेषे, पुं । यदुक्तं प्राणतोषिण्या- मवधूतप्रकरणे । “सुरम्ये निर्झरे देशे वने वासं करोति यः । आशापाशविनिर्मुक्तो वननामा स उच्यते ॥”)
शब्दकल्पद्रुमः
वन || द ङ उ याचे । इति कविकल्पद्रुमः ॥ (तना०- आत्म०-द्विक०-सेट् । उदित्त्वात् क्त्वावेट् ।)
द ङ, वनुते । उ, वनित्वा वत्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वन || सम्भक्तिशब्दयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
वनति । संभक्तिः सेवनम् । इति दुर्गादासः ॥