संस्कृत-शब्दकोशः

वनचन्द्रिका वनच्छाग

वनचम्पक

वाचस्पत्यम्

वनचम्पक ||‍ पु० ७ त० । (वनचाँपा) चम्पकभेदे राजनि० ।


शब्दकल्पद्रुमः

वनचम्पकः || पुं, (वनजातश्चम्पकः । शाकपार्थिव- वत् समासः ।)
वनजचम्पकपुष्पवृक्षः । तत्- पर्य्यायः । वनदीपः २ हेमाह्वः ३ सुकुमारः ४ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । वातकफ- नाशित्वम् । वर्ण्यत्वम् । चक्षुष्यत्वम् । व्रण- रोपणत्वम् । वयःस्तम्भकारित्वञ्च । इति राज- निर्घण्टः ॥



Correction: