संस्कृत-शब्दकोशः

वनचम्पक वनज

वनच्छाग

वाचस्पत्यम्

वनच्छाग ||‍ पु० वने जातश्छागः । (वनछागल) १ छागभेदे राजनि० । वने छाग इव । २ शूकरे पुंस्त्री० शब्दमा० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

वनच्छागः || पुं, (वनस्य छागः ।)
अरण्य- च्छगलः । तत्पर्य्यायः । एडकः २ शिशु- वाह्यकः ३ । इति त्रिकाण्डशेषः ॥ (वने छाग इव ।)
शूकरः । इति शब्दमाला ॥



Correction: