वाचस्पत्यम्
वनप्रिय || पुंस्त्री० वनं वनस्थं प्रीणाति प्री—क । १ कोकिले स्त्री मेदि० स्त्रियां योपधत्वात् टाप् २ अरण्यप्रियमात्रे त्रि० । ३ त्वचे न० राजनि० ।
शब्दकल्पद्रुमः
वनप्रियं || क्ली (वनेषु वनजातेषु मध्ये प्रियम् ।)
त्वचम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वनप्रियः || पुं, (वनं प्रियं यस्य ।)
कोकिलः । इत्यमरः । २ । ५ । १९ ॥ (यथा, —
“अयि वनप्रिय विस्मृत एव किं वलिभुजो विघसो भवताधुना । यदनयैव कुहूरिति विद्यया न पततश्चरणौ धरणौ तव ॥” इत्युद्भटः ॥)
अरण्यप्रियमात्रे, त्रि ॥