संस्कृत-शब्दकोशः

वनबीजक वनभद्रिका

वनबीजपूरक

शब्दकल्पद्रुमः

वनबीजपूरकः || पुं, (वनोद्भवो बीजपूरकः ।)
अरण्यजातबीजपूरः । तत्पर्य्यायः । वनजः २ वनबीजकः ३ वनबीजः ४ अत्यम्ला ५ गन्धाम्ला ६ वनोद्भवा ७ देवदूती ८ पीता ९ देवदासी १० देवेष्टा ११ मातुलङ्गिका १२ पचनी १३ महा- फला १४ । अस्य गुणाः । अम्लत्वम् । कटु- त्वम् । उष्णत्वम् । रुचिप्रदत्वम् । वातामदोष- कृमिकफश्वासनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: