संस्कृत-शब्दकोशः

वनमालिनी वनमुच्

वनमालिन्

वाचस्पत्यम्

वनमालिन् ||‍ पु० वनमालाऽस्त्यस्य इनि । १ श्रीकृष्णे अमरः २ वाराहीलतायाम् स्त्री मेदि० ङीप् ३ द्वारकापुर्य्यां स्त्री त्रिका० ।


शब्दकल्पद्रुमः

वनमाली || [न्] पुं, (वनमाला अस्त्यस्येति । इनिः ।)
श्रीकृष्णः । इत्यमरः । १ । ९ । २१ ॥ (नारायणः । यथा, प्रद्युम्नविजये । ३ अङ्के । “कमलयामलया वनमालिनं गिरिजया गिरिशञ्च निशा विधुम् । सुविवृता परियोजयतो विधे- श्चतुरता ह्यनुरूपसमागमे ॥”)



Correction: