वाचस्पत्यम्
वनमुद्ग || पु० वनोद्भवः मुद्गः । १ मुद्गभेदे (मुगानि) अमरः । २ मुद्गपर्ण्यां स्त्री राजनि० गौरा० ङीष् ।
शब्दकल्पद्रुमः
वनमुद्गः || पुं, (वनोद्भवो मुद्गः ।)
मुकुष्टकः । इत्य- मरः । २ । ९ । १७ ॥ तत्पर्य्यायः । वरकः २ निगूढकः ३ कुलीनकः ४ खण्डी ५ । इति हेम- चन्द्रः । ४ । २३९ ॥ अस्य अन्यपर्य्यायगुणौ मुकुष्ट- मकुष्टकशब्दयोर्द्रष्टव्यौ ॥ (यथा, सुश्रुते । १ । ४६ । “वनमुद्गकलायमकुष्टमसूरमर्द्दल्यचणकसतीन- त्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ॥)