वाचस्पत्यम्
वनमूर्द्धजा || स्त्री वनस्य मूर्द्धजं शृङ्गमिवास्त्यस्याः अच् । (काकडाशिङ्गा) कर्कटशृङ्गाम् राजनि० ।
शब्दकल्पद्रुमः
वनमूर्द्धजा || स्त्री (वनस्य मूर्द्ध्नि जायते इति । जन् डः ।) वनबीजपूरकः । इति राजनिर्घण्टः ॥