शब्दकल्पद्रुमः
वनवह्निः || पुं, (वनस्य वनोद्भवो वा वह्निः ।) दावा- नलः । इति हेमचन्द्रः । ४ । १६७ ॥ (यथा, कथासरित्सागरे । ५६ । ३४३ । “फणारत्नप्रभाजालजटिलं वनवह्निना । गृहीतमिव तेनोग्रहेतिहस्तेन मूर्द्धनि ॥”)