वाचस्पत्यम्
वनवासिन् || पु० वनं वासयति सुरभीकरोति वासि—णिनि । १ मुष्ककवृक्षे २ वाराहीकन्दे ३ शाल्मलीकन्दे ४ नील- महिषकन्दे ५ ऋषभनामौषधे च राजनि० । वने वसति वस—णिनि । ६ वनवासकर्त्तरि त्रि० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वनवासी || [न्] पुं, (वनं वासयति सुरभीकरोतीति । वासि + णिनिः ।)
ऋषभनामौषधम् । मुष्कक- वृक्षः । वाराहीकन्दः । शाल्मलीकन्दः । नील- महिषकन्दः । इति राजनिर्घण्टः ॥ (वने वस- तीति । वस् + णिनिः ।)
वनवासकर्त्तरि, त्रि ॥ (यथा, मनुः । ६ । २७ । “तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥”)