संस्कृत-शब्दकोशः

वनसरोजिनी वनस्था

वनस्थ

शब्दकल्पद्रुमः

वनस्थः || पुं, (वने तिष्ठतीति । स्था + कः ।)
मृगः । इति शब्दचन्द्रिका ॥ (वानप्रस्थः । यथा, मनुः । ५ । १३७ । “एतच्छौचं गृहस्थानां द्बिगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वनस्थानां यतीनान्तु चतुर्गुणम् ॥”)
वनवासिनि, त्रि ॥ (यथा, हरिवंशे । १५२ । २१ । “प्रवृत्तचक्रो नृपतिर्वनस्थान् गजान् गजैः स्वैरिव वीर्य्यदीप्तान् ॥”)



Correction: