संस्कृत-शब्दकोशः

वनस्था वनहरिद्रा

वनस्पति

वाचस्पत्यम्

वनस्पति ||‍ पु० वनस्य पतिः नि० सुट् । पुष्पं विना जाय- मानफले १ अश्वत्थादौ वृक्षे अमरः । २ वृक्षमात्रे मेदि० ।


शब्दकल्पद्रुमः

वनस्पतिः || पुं, (वनस्य पतिः । पारस्करादित्वात् सुट् ।)
विना पुष्पं फलिद्रुमः । (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥”)
वृक्षमात्रम् । इति मेदिनी । ते, २१६ ॥ (यथा, महाभारते । १ । १४१ । १६ । “कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥”)
स्थालीवृक्षः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्बनस्पतिः ॥” इति भावप्रकाशे । १ । १ ॥ घृतपृष्ठस्य पुत्त्रविशेषः । यथा, भागवते । ५ । २० । २१ ॥ “आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितवर्णो वनस्पतिरिति घृतपृष्ठ- सुताः ॥” वटवृक्षः ॥ तत्पर्य्यायो यथा, —
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: