वाचस्पत्यम्
वनायु || पु० वन—आयुच् । प्रशस्तघोटकोद्भवदेशभेदे (आरव) राजनि० ।
शब्दकल्पद्रुमः
वनायुः || पुं, देशविशेषः । यथा, —
“गया गयश्च वानायुर्बनायुर्यदुसात्वतम् ।” इति शब्दरत्नावली ॥ (यथा, महाभारते । ८ । ७ । ११ । “आजानेयैः सैन्धवैः पार्व्वतीयै- र्नदीजकाम्बोजवनायुवाह्लिकैः ॥” दानवविशेषः । यथा, महाभारते । १ । ६५ । ३० । “गरिष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ॥”)