शब्दकल्पद्रुमः
वनाश्रयः || पुं, (वनमेव आश्रयो यस्याः ।) द्रोण- काकः । इति जटाधरः ॥ (अरण्याश्रयिणि, त्रि । यथा, मार्कण्डेये । १०९ । ४३ । “सीदिष्यत्यखिलो लोकस्त्वयि भूप ! वना- श्रये ॥”)