वाचस्पत्यम्
वनीयक || स्त्री वन—इन् आत्मनो वनिं याचनमिच्छति क्यच् ण्वुल् । याचके अमरः पृषो० यलोपः । वनीकोऽप्यत्र सारसुन्दरी ।
शब्दकल्पद्रुमः
वनीयकः || त्रि (वनिं याचनमिच्छतीति । क्यच् । ततो ण्वुल् ।) याचकः । इत्यमरः । ३ । १ । ४९ ॥