संस्कृत-शब्दकोशः

वनेक्षुद्रा वनेज्य

वनेचर

वाचस्पत्यम्

वनेचर ||‍ त्रि० वने चरति चर—ट अलुक्स० । अरण्य- चारिणि व्याधादौ स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

वनेचरः || त्रि (वने चरतीति । चर + “चरेष्टः ।” इति टः । तत्पुरुषे कृतीत्यलुक् ।)
अरण्य- चारी । यथा, —
“वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥” इति कुमारसम्भवे १ सर्गः ॥



Correction: