शब्दकल्पद्रुमः
वन्दनमाला || स्त्री (वन्दनार्था माला यत्र सा ।)
तोरणम् । इति हलायुधः । २ । १४६ ॥ (वन्दनार्था माला इति कर्म्मधारये ।)
रम्भा- स्तम्भचतुष्टयवेष्टिताम्रपत्ररचितमाला । यथा, “कुर्य्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः । चूतवृक्षोद्भवैः पत्रैर्जागरे चक्रपाणिनः ॥ युगानि पत्रसंख्यानां स्वर्गे तस्योत्सवो भवेत् । पूज्यते वासवाद्यैश्च क्रीडते चाप्सरोवृतः ॥” इति हरिभक्तिविलासे १३ विलासः ॥