वाचस्पत्यम्
वन्दनीय || त्रि० वदि—अनीयर् । १ नमनीये २ स्तवनीये च ३ पीतभृङ्गराजे पु० राजनि० । ४ गोरोचनायां स्त्री त्रिका० ।
शब्दकल्पद्रुमः
वन्दनीयः || त्रि (वदि + अनीयर् ।)
स्तवनीयः । वन्द्यः । वन्दितव्यः । वदधातोरनीयप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । ७ । ८० । ३० । “ततः शुद्धाप्तमासाद्य जानुभ्यां भूतले स्थितः । शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥”)
शब्दकल्पद्रुमः
वन्दनीयः || पुं, (वन्द्यते भेषजार्थं स्तूयते इति । वदि + अनीयर् ।)
पीतभृङ्गराजः । इति राज- निर्घण्टः ।