शब्दकल्पद्रुमः
वन्दनी || स्त्री (वन्द + ल्युट् । ङीप् ।)
नतिः । जीवातुः । वटी । याचनकर्म्म । इति मेदिनी । ने, ९७ ॥ क्वचित् पुस्तके वटीस्थाने कटी याचन- कर्म्मस्थाने माचलकर्म्म इति च पाठः । तत्र तु पवर्गीयबकारादौ लिखितोऽयं शब्दः । किन्तु वदि ङ नुत्यभिवादयोरित्यस्मात् अनट्प्रत्यय- निष्पन्नत्वात् अन्तःस्थवकारादौ लिखितः ॥