शब्दकल्पद्रुमः
व(ब)न्दीकारः || पुं, (वन्दीवत् गृहस्थं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) वन्दिग्राहः । डाकाइत इति भाषा । तत्- पर्य्यायः । माचलः २ प्रसह्यचौरः ३ चिल्लाभः ४ । इति त्रिकाण्डशेषः ॥