वाचस्पत्यम्
वपन || न० वप—ल्युट् । १ केशमुण्डने २ वीजाधाने ३ तन्त्वा- धाने च मेदि० । “प्रयागे भास्करक्षेत्रे पितृमातृ- वियोगतः । आधाने सोमपाने च वपनं पञ्चसु स्मृतम्” प्रा० त० ।
शब्दकल्पद्रुमः
वपनं || क्ली (वप् + भावे ल्युट् ।)
केशमुण्डनम् । (यथा, मनुः । ५ । १४० । “शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् ॥”)
बीजाधानम् । इति मेदिनी । ने, १२२ ॥