वाचस्पत्यम्
वपा || स्त्री वप—अच् । १ मेदसि (चरवि) “वपाया हविषः” इति श्रुतिः । ३ छिद्रे च अमरः ।
शब्दकल्पद्रुमः
वपा || स्त्री (उप्यतेऽत्रेति । वप् + भिदाद्यङ् । टाप् ।)
छिद्रम् । (यथा, शतपथब्राह्मणे । ६ । ३ । ३ । ५ । “अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति ॥”)
मेदः । इत्यमरः । २ । ६ । ६४ ॥ (यथा, रामायणे । १ । १४ । ३६ । “पतत्त्रिणस्तस्य वपामुद्धृत्य नियतन्द्रियः । ऋत्विक् परमसम्पन्नः स्नपयामास शास्त्रतः ॥” सा च हृदयस्थधातुः । यथा । “त्वक् च लोहितञ्च मांसञ्च मेदश्च नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च पुक्कौ च वस्तिश्च पुरीषा- धानञ्चामाशयश्च पक्वाशयश्चोत्तरगुदञ्चाधर- गुदञ्च क्षुद्रान्त्रञ्च वपा च वपावहनञ्चेति मातृ- जानि ।” इति चरके शारीरस्थाने तृतीये- ऽध्याये ॥)