वाचस्पत्यम्
वपुन || पु० वप—उनच् । देवतायां शब्दर० ।
शब्दकल्पद्रुमः
वपुनः || पुं, (वप + उनच् । वयुन + पृषोदरादि- त्वात् यस्य पः इति केचित् ।) देवता । इति शब्दरत्नावली ॥