संस्कृत-शब्दकोशः

वपुष्टमा वपुःस्रव

वपुस्

वाचस्पत्यम्

वपुस् ||‍ न० उप्यन्ते देहान्तरभोगसाधनवीजीभूतानि कमाण्यत्र वप—उसि । १ शरीरे अमरः । २ प्रशस्ताकारे च मेदि० ।


शब्दकल्पद्रुमः

वपुः || [स्] क्ली, (उप्यन्ते देहान्तरभोगसाधन- बीजीभूतानि कर्म्माण्यत्रेति । वप् + “अर्त्ति- पॄवपियजीति ।” उणा० २ । ११८ । इति उसिः ।)
शरीरम् । इत्यमरः । २ । ६ । ७० ॥ (यथा, रघुः । २ । ४७ । “एकातपत्रं जगतः प्रभुत्व नवं वयः कान्तमिदं वपुश्च ॥”)
प्रशस्ताकृतिः । इति मेदिनी । से, ३६ ॥ (अंशः । यथा, मनुः । ५ । ९६ । “अष्टानां लोकपालानां वपुर्धारयते नृपः ॥” “वपुस्तेजोऽंशः ।” इति मेधातिथिः ॥ स्त्री, स्वनामख्याता दक्षकन्या । सा तु धर्म्मराजस्य पत्नी । यथा, मार्कण्डेये । ५० । २१ । “बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो- दशी । पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”)



Correction: