संस्कृत-शब्दकोशः

वप्री वभ्र

वब

शब्दकल्पद्रुमः

वबः || पुं, एकादशकरणान्तर्गतप्रथमकरणम् । अस्याधिपतिरिन्द्रः । तत्र विहितानि यथा, —
“पौष्टिकस्थिरशुभानि वबाख्ये ।” इति ज्योतिस्तत्त्वम् ॥ अत्र जातफलम् । “वबाभिधाने जननं हि यस्य शूरोऽतिधीरो मनुजः कृती स्यात् । पद्मालया तन्निलये निवाम्रं करोति नित्यं सुविचक्षणः स्यात् ॥” इति कोष्ठीप्रदीपः ॥ दाक्षिणात्यमते अस्य शब्दस्य प्रथमबकारः पवर्गीयः शेषवकारोऽन्तःस्थः ॥



Correction: