वाचस्पत्यम्
वमथु || पु० वम—अथुच् । वमने उद्गिरणे अमरकोषः ।
शब्दकल्पद्रुमः
वमथुः || पुं, (वमनमिति । वम् + “ट्वितोऽथुच् ।” ३ । ३ । ८९ । इति अथुच् ।)
वमिः । (यथा, सुश्रुते उत्तरतन्त्रे ४५ अध्यायः । “दौर्ब्बल्यश्वासकाशज्वरवमथुमदाः पाण्डुता- दाहमूर्च्छाः ॥”)
हस्तिशुण्डनिर्गतजलकणा । तत्पर्य्यायः । कर- शीकरः २ । इत्यमरः । २ । ६ । ५५ ॥ (यथा, नैषधे । १९ । ६ । “रजनिवमथुप्रालेयाम्भः कणक्रमसंभृतैः कुशकिशलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ॥”)