संस्कृत-शब्दकोशः

वमथु वमनी

वमन

वाचस्पत्यम्

वमन ||‍ न० वम ल्युट् । १ मर्दने २ छर्दने मेदि० ३ आहुतौ विश्वः ४ निःसारणे च “स्वर्गाभिष्यन्दवमनम्” कुमारः । ५ शरो पु० । ६ जलौकायां स्त्री राजनि० गौरा० ङीष् ।


शब्दकल्पद्रुमः

वमनं || क्ली (वम् + भावे ल्युट् ।)
छर्द्दनम् । (यथा, सुश्रुते । १ । १२ । “मधुराम्लौ रसौ वापि वमनाय प्रदापयेत् ॥” वमनद्रव्यमपि । यथा, कथासरित्सागरे ६४ । १७ । “स दत्त्वा वमनं कृच्छ्रात् मृतकल्पमजी- वयत् ॥”)
अर्द्दनम् । इति मेदिनी । ने, १२३ ॥ आहुतिः । इति विश्वः ॥ (आहरणम् । यथा, रघुः । १५ । २९ । “या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥” * ॥
अथ वमनकल्पीयविधिः । “वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने । नित्यमन्यस्य तु व्याधि विशेषेण विशिष्टता ॥ फलानि तानि पाण्डूनि न चातिहरितान्यपि । आदायाह्रि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः ॥ प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा वद्ध्वा प्रलेपयेत् । गोमयेनानुमुत्तोलीं धान्यमध्ये निधापयेत् ॥ मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात् । निष्कृष्य निर्गतेऽष्टाहे शोषयेत्तान्यथातपे ॥ तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः । दधिमध्वाज्यपललैर्मृदित्वा शोषयेत् पुनः ॥ ततः सुगुप्तं संस्थाप्य कार्य्यकाले प्रयोजयेत् । अथादाय ततो मात्रां जर्ज्जरीकृत्य वासयेत् ॥ शर्व्वरीं मधुयष्ट्या वा कोविदारस्य वा जले । कर्व्वुदारस्य विम्ब्या वा नीपस्य विदुलस्य वा ॥ शणपुष्प्याः सदा पुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा । ततः पिबेत् कषायं तं प्रातर्मुदितगालितम् ॥ सूत्रोदितेन विधिना साधु तेन तथा वमेत् । श्लेष्मज्वरप्रतिश्यायगुल्भान्तर्व्विद्रधीषु च ॥” “पित्ते कफस्थानगते जीमूतादिजलेन तत् । हृद्दाहेऽधोऽस्रपित्ते च क्षीरं तत्पिप्पली शृतम् ॥ क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु च । दध्युत्तरं वा दधि वा तत्स्रुतक्षीरसम्भवम् ॥ फलादिक्वाथकल्काभ्यां सिद्धं तत् सिद्धदुग्ध- जम् । सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वा मतम् ॥” “वत्सकादिप्रतीवापः कषायः फलमज्जजः । निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति ॥ बद्धमूलानपि व्याधीन् सर्व्वान् सन्तर्पणोद्भवान् । वाटपुष्पफलश्लक्ष्णचूर्णैर्म्माल्यं सुरूक्षितम् ॥ वमेन्मण्ड वसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥” “इक्ष्वाकुर्व्वमने शस्तः प्रताम्यति च मानवे । फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम् । पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत् ॥” “सक्तुभिर्व्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः । कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके ॥ गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत् । नरः साधु वमत्येवं न च दौर्ब्बल्यमश्नुते ॥” “जीवकर्षभकौवीरा कपिकच्छूः शतावरी । काकोलीश्रावणी मेदा महामेदा मधूलिका ॥ तद्रजोभिः पृथग्लेहा धामार्गवरजोऽन्विताः । कासे हृदयदाहे च शस्ता मधुसिताहृताः ॥” “सर्षपाणां मधूकानां तोयेन लवणस्य वा । पाययेत् कौटजं बीजं युक्तं कृशरयाथवा ॥ सप्ताहं वार्कदुग्धाक्तं तच्चूर्णं पाययेत् पृथक् । फलजीमूतकेक्ष्वाकु जीवन्तीजीवकोदनैः ॥ वमनौषधमुख्यानामिति कल्पदिगीरिता । बीजेनानेन मतिमानन्यान्यपि च कल्पयेत् ॥” इति वाभटे कल्पस्थाने प्रथमेऽध्याये ॥)


शब्दकल्पद्रुमः

वमनः || पुं, (वमतीव शुक्लवर्णमिति । वम् + ल्युः ।)
शणः । इति राजनिर्घण्टः ॥



Correction: