संस्कृत-शब्दकोशः

वमनीया वमित

वमि

वाचस्पत्यम्

वमि ||‍ स्त्री वम—इन् । १ छर्दौ छर्दिशब्दे २९८० पृ० दृश्यम् । २ अग्नौ पु० मेदि० ३ धूर्त्ते त्रि० शब्दर० ।


शब्दकल्पद्रुमः

वमिः || पुं, (वमति उद्गिरति धूमादिकमिति । टुवम उद्गिरणे + “इक् कृष्यादिभ्यः ।” इतीक् ।)
अग्निः । इति मेदिनी । मे, २९ ॥ धूर्त्तः । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

वमिः || स्त्री (वमनमिति । वम् + सर्व्वधातुभ्य इन् । उणा० ४ । ११७ ।)
प्रच्छर्द्दिका । इत्यमरः । २ । ६ । ५५ ॥ (अस्याः ससम्प्राप्तिलक्षणचिकित्सितं पथ्यापथ्यञ्च यथा, —
“आमजे शूलरोगार्त्तिः पर्व्वभेदो भ्रमः क्लमः । शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ॥ खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः । गर्म्भीरनेत्रो वमते विड्बन्धो वातिसार्य्यते ॥ गात्रे खल्ली करं शूलं तथा शोथोऽतिमूर्च्छना । विकलाङ्गो भ्रमार्त्तश्च भ्रमत्तदीक्षते जगत् ॥ शिरोर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ । एतैर्लिङ्गैस्तु संयुक्तां छर्द्दिं दूरे परित्यजेत् ॥” चिकित्सा । “स पञ्चमूलीक्वथितः कषायः ससैन्धवञ्चामलकञ्च कल्कः । क्वाथं पिबेन्मिश्रितपिप्पलीकं स वातच्छर्दिर्व्विनिवारणञ्च ॥” “आमलक्या रसेनाथ घृष्टं चन्दनकं मधु । गुटिकामलमानेन लेहो हन्ति वमिं ध्रुवम् ॥ चित्रककटुकरजनीद्वयञ्च फलत्रिकं मधुना च यावशूकञ्च । समकृतमिति चृर्णमेतन्मधुना युतं वमिं निवा- रयति ॥” “काकोली काकमाची च क्वाथं शर्करया युतम् । लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ॥ मातुलुङ्गरसश्चैव पथ्याशर्करया युतः । हन्ति कासं पित्तभवं वमिं शीघ्रं नियच्छति ॥ दृष्ट्वा पित्तवमिं घोरां सदाहभ्रमदायिनीम् । तत्रारग्वधपत्राणि मधुशर्करयान्वितम् ॥ क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ।” “जम्ब्वाम्लयोः प्रवालानि दाडिमामलकन्तथा । मस्तुनोपोषितं पानं हन्याच्छ्ले प्मवमिं नृणाम् ॥ सर्ज्जार्ज्जुनं धवकदम्बककोलचूर्णं शुण्ठ्या च धान्यसहितं सगुडं प्रदद्यात् । श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां शुण्ठीकणा मधुविडङ्गयुतोऽपि लेहः ॥” “ऊर्द्ध्वगागगते दोषे विरेको हि प्रशस्यते । तस्मिन् जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ॥ अथ द्बिभागमाप्तञ्चेत्तदा देयाभया मधु । क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया ॥ न चोष्णं नातिचाम्लञ्च न तीक्ष्णं न तथा लघु । तण्डुलीयकशाकं वा न मद्यं काञ्जिकं न तु ॥ वमिदोषे च कथितं पथ्यञ्चात्र शृणुष्व भे । आनूपं शालिभक्तञ्च शतपुष्पा च वास्तुकम् ॥ आढकी मुद्गयूषञ्च दधि सर्पिर्गुडान्वितम् । अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते ॥ यथाबलं यथाकालं यथारोगं यथानलम् । तथा दृष्ट्वा प्रकुर्व्वन्ति पथ्यानां समुपक्रमम् ॥ दिवानिद्रां प्रयुञ्जीत वमौ श्वासेऽतिसारके । हिक्काशोषे तथा जीर्णे वमिक्लेदेऽथवा पुनः ॥ न चोष्णतोयपानञ्च नातिभोजनमेव च । नधावनञ्च कर्त्तव्यं वर्ज्जयेद्वमनार्द्दिते ॥” इति वैद्यके ॥)
अथ छर्द्द्यधिकारः । तत्र छर्द्दिविप्रकृष्टसन्नि- कृष्टनिदानं पूर्ब्बरूपं संप्राप्तिञ्चाह । “अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि । अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः ॥ आमाद्भयात्तथोद्वेगादजीर्णात् कृमिदोषतः । नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥ दुष्टैर्दोषैः पृथक् सर्व्वैर्वीभत्सालोकनादिभिः । वीभत्सैर्हेतुभिश्चान्यैर्मुक्तमुत्क्लिश्यते बलात् ॥” आमात् असम्यक् पक्वाद्रसात् । अजीर्णात् यथा- स्थिताद्भ, क्तात् । आपन्नसत्त्वायाः प्राप्तगर्भायाः । अन्यैर्वीभत्सैर्विकृतैर्हेतुभिः घृणाकारिभिः अनिष्टश्रवणस्पर्शनदर्शनभक्षणघ्राणैरुत्क्लिश्यते- ऊर्द्धं नोत्वा मुखाद्बहिष्क्रियते ॥ * ॥
पूर्व्वरूप- माह । “हृल्लासोद्गाररोधौ च प्रसेको लवणास्थता । द्देषोऽन्नपाने च भृशं वमीनां पूर्व्वलक्षणम् ॥” छर्द्देः सामान्यलक्षणमाह । “छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः । निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥ छादयन् पूरयन् अङ्गभञ्जनैः अङ्गभेदैः अर्द्दयन् अद्गानि पीडयन् । वक्त्रं प्रधावितः वक्त्रं प्रति धावितः दोषः छर्द्दिर्निरुच्यते ॥” * ॥
वातजाया लक्षणमाह । “हृत्पार्श्वपीडामुखशोषशीर्ष- नाभ्यर्त्तिकासस्वरभेदतोदैः । उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ॥ कृच्छ्रेण चाल्पं महता च वेगे- नार्त्तोऽनिलाच्छर्द्दयतीव दुःखम् ॥” कषायं कषायरसम् । दुःखं दुःखमिव छर्द्द- यति ॥ * ॥
पित्तजामाह । “मूर्च्छापिपासामुखशोषमूर्द्ध- ताल्वक्षिसन्तापतमोभ्रमार्त्तः । पीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत् सदाहम् ॥” * ॥
कफजामाह । “तन्द्रास्यमाधुर्य्यकफप्रसेकं सन्तोषनिद्रारुचिगौरवार्त्तः । स्निग्धं घनं स्वादु कफाङ्गि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ॥” सन्तोषस्तृप्तिः ॥ * ॥
त्रिदोषजामाह । “शूलाविपाकारुचिदाहतृष्णा- श्वासप्रमोहप्रबलाप्रसक्तम् । छर्द्दिस्त्रिदोषाल्लवणाम्लनील- सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥” आगन्तुजामाह । “असात्म्यजां च क्रिमिजामजा च वीभत्सजा दौर्हृदजा च या हि । सा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ॥” एताः पञ्चागन्तुजत्वेन साम्यादेकैव अतएव सा आगन्तुजा पञ्चमी विभावयेत् अनुवन्धयेत् ॥ * ॥
उपद्रवानाह । “कासः श्वासो ज्वरस्तृष्णा हिक्का वैचित्यमेव च । हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्द्देरुपद्रवाः ॥ वैचित्यं विकृतचित्तत्वम् । तमकोऽत्र तमः । श्वासपदेनैव तमकाख्यस्यापि श्वासस्योक्तत्वात् ॥ असाध्यां साध्याञ्चाह । “क्षीणस्य या च्छर्द्दिरतिप्रसक्ता सोपद्रवा शोषितरूपयुक्ता । सचन्द्रिकां तां प्रवदेदसाध्यां साध्यां चिकित्सेत् निरुपद्रवाञ्च ॥” सचन्द्रिका मयूरपिच्छचन्द्रिकाप्रभायुक्ता ॥ * ॥
अथ छर्द्देश्चिकित्सा । “आमाशयोत्क्लेशभवा हि सर्व्वा- श्छर्द्यो मता लंवनमेव तस्मात् । विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥” अत्र द्वितीयपादे छर्द्दीशब्दः ॥ “हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भ- वाम् । मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥” क्षीरोदकं नाशितस्य क्षीरस्य उदकम् ॥ २ ॥ “गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम् । पिबेन्मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥ ३ ॥ हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् । अधोमार्गीकृते दोषे छर्द्दिः शीघ्नं निवर्त्तते ॥ ४ ॥ बिडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् । विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥” प्लवं कैवर्त्तीमुस्तम् । गुडतजी इति लोके ॥ ५ ॥ “पिष्ट्वा घात्रीफलं लाजान् शर्करां च पलो- न्मिताम् । दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च । वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोष- जाम् ॥ ६ ॥ गुडच्या रचितं हन्ति हिमं मधुसमन्वितम् । दुर्निवारामपि च्छर्द्दिं त्रिदोषजनितां बलात् ॥ ७ एलालवङ्गगजकेशरकोलमज्ज- लाजप्रियङ्गु घनचन्दनपिप्पलीनाम् । चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥” इति एलादिचूर्णम् ॥ ८ ॥ “अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वासितं जले । तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥ ९ ॥ पथ्यात्रिकटुधान्याकजीरकाणां रजो लिहन् । मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥ १० ॥ विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः । छर्दिं त्रिदोषजां हन्ति पर्प्पटः पित्तजां तथा ॥ ११ ॥ आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः । निहन्यात् छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥” इति निर्यू हक्वाथः ॥ १२ ॥ “जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् । शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति- मुग्राम् ॥ १३ ॥ वीभत्सजां हृद्यतमैरिष्टैर्दौहृदजां फलैः । लङ्घनैरामजां छर्द्दि जयेत् सात्म्यैरसात्म्य- जाम् ॥ १४ ॥ कृमिहृद्रोगवद्धन्यात् वमिं कृमिसमुद्भवाम् । तत्र तत्र यथादोषं क्रियां कुर्य्यात् चिकित्- सकः ॥” १५ ॥ इति छर्द्यधिकारः । इति भावप्रकाशः ॥



Correction: