वाचस्पत्यम्
वय || गतौ भ्वा० आ० सक० सेट् । वयते अवयिष्ट । अवयि(ढ्व)ध्वम् ।
शब्दकल्पद्रुमः
वय || ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, वयते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
वयं || त्रि अस्मदादिः । आमरा इति भाषा । अस्मच्छब्दस्य वयादेशे जसि रूपोऽयम् । इति व्याकरणम् ॥ (यथा, —
“एको भवामि स्म भवेऽहमादौ दारैरथोभौ स्म भवाव आवाम् । वयं भवामो बहवः स्म पुत्त्रै- स्त्वन्माययाद्यापि विभो प्रसीद ॥” इति मुग्धबोधव्याकरणम् ॥)