संस्कृत-शब्दकोशः

वय वयस्थ

वयस्

वाचस्पत्यम्

वयस् ||‍ न० अज—असुन् वीमावः । १ विहगे २ वाल्याद्यवस्था- याम् अमरः “वयोऽतिपातोद्गतवातेति” नैष० । ३ यौवने च विश्वः ।


शब्दकल्पद्रुमः

वयः || [स्] क्ली, (वयते वेति अजतीति वा । वय ङ गतो वीगतौ अजगतौ वा + असुन् । अजते- र्वीभावः ।)
पक्षी । (यथा, विष्णुपुराणे । १ । ५ । ४६ । “ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो- ऽसृजत् ॥”)
वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥ (यथा, महामारते । ३ । ६८ । २३ । “तुल्यर्शीलवयोयुक्तां तुल्याभिजनसंयुताम् । नैषधोऽर्हति वैदभीं तञ्चेयमसितेक्षणा ॥” अन्नम् । इति निघण्टुः । २ । ७ ॥ यथा, ऋग्- वेदे । २ । २० । १ । “वयं ते वय इन्द्र विद्धि षुणः प्रभरामहे वाजयु- र्नरथम् ॥”)
यौवनम् । इति मेदिनी । से, ३५ ॥ * ॥
वयो- विशेषे कर्त्तव्यानि यथा, —
“शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥” इति रघुवंशे १ सर्गः ॥ * ॥
अपि च । “प्रथमेनार्ज्जिता विद्या द्वितीये नार्ज्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥” इति चाणक्यशतकम् ॥ वयोविशेषाणां नियमा यथा, —
“कौमारं पञ्चमाब्दान्तं पौगण्ड्यं दशमावधि । कैशोरमापञ्चदशात् यौवनञ्च ततः परम् ॥” इति प्रायश्चित्ततत्त्वधृतवचनम् ॥ * ॥
अपि च । “आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति भरतधृता स्मृतिः ॥ * ॥
अन्यच्च । “बाल्यं वृद्धिर्वयो रूपं चक्षुस्त्वक् श्रोत्ररेतसी । दशकेन निवर्त्तन्ते मनः सर्व्वन्द्रियाणि च ॥” इति महाभारतम् ॥ * ॥
(“कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयोऽमिधीयते । तद्वयो यथा स्थूलभेदेन त्रिविधम् । बालं मध्यं जीर्णमिति । तत्र वाल- मपरिपक्वधातुगुणमजातव्यञ्जनं सुकुमाराक्लेश- सहमसम्पूर्णबलं श्लेष्मधातुप्रायं आषोडशवर्षम् ।- विवर्द्धमानधातुमुणं पुनः प्रायेणानवस्थितसत्त्व- मात्रिंशद्वर्षमुपदिष्टम् । मध्यं पुनः समर्थागत- बलवीर्य्यपौरुषपराक्रमग्रहणस्मरणवचनविज्ञान- सर्व्वधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुद्दिष्टम् । अतःपरं परिहीयमानधात्विन्द्रियबलपौरुषपरा- क्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमान- धातुगुणं वातधातुप्रायं क्रमेण प्रजीर्णमुच्यते आ- वर्षशतम् ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ “वयस्तु त्रिविधं बालं मध्यं वृद्धमिति । तत्रोन- षोडशवर्षा बालास्तेपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा इति । तेषु संवत्सरपराः क्षीरपा द्बिसंवत्सरपराः क्षीरान्नादाः परतो- ऽन्नादा इति ॥ षोडशसप्तत्योरन्तरे मध्यं वय- स्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानि- रिति । तत्राविंशतेर्वृद्धिरात्रिंशतो यौवनमा- चत्वारिंशतः सर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता । अत ऊर्द्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति ॥ सप्ततेरूर्द्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्य्योत्साह- महन्यहनिवलीपलितखालित्यजुष्टं कासश्वास- प्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥ तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज- मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्या पेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र । वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् । तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियां शनैः ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥



Correction: